|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.50. अध्यायः 050
Mahabharata - Adi Parva - Chapter Topics
शून्यारण्ये वृत्तस्य काश्यपतक्षकवृत्तान्तस्योपलब्धिप्रकारकथनम्॥ 1 ॥

Mahabharata - Adi Parva - Chapter Text
मन्त्रिण ऊचुः। 1-50-0x(239)(2100)
ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम्।
मुनेः क्षुत्क्षाम आसज्य स्वपुरं प्रययौ पुनः॥ 1-50-1(2101)
ऋषेस्तस्य तु पुत्रोऽभूद्गति जातो महायशाः।
शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः॥ 1-50-2(2102)
ब्रह्माणं समुपागम्य मुनिः पूजां चकार ह।
सोऽनुज्ञातस्ततस्तत्र शृङ्गी शुश्राव तं तदा॥ 1-50-3(2103)
सख्युः सकाशात्पितरं पित्रा ते धर्षितं पुरा।
मृतं सर्पं समासक्तं स्थाणुभूतस्य तस्य तम्॥ 1-50-4(2104)
वहन्तं राजशार्दूल स्कन्धेनानपकारिणम्।
तपस्विनमतीवाथ तं मुनिप्रवरं नृप॥ 1-50-5(2105)
जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुतम्।
तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तदा॥ 1-50-6(2106)
शुभाचारं शुभकथं सुस्थितं तमलोलुपम्।
अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम्।
शरण्यं सर्वभूतानां पित्रा विनिकृतं तव॥ 1-50-7(2107)
शशापाथ महातेजाः पितरं ते रुषान्वितः।
ऋषेः पुत्रो महातेजा बालोऽपि स्थविरद्युतिः॥ 1-50-8(2108)
स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह।
पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव॥ 1-50-9(2109)
अनागसि गुरौ यो मे मृतं सर्पवासृजत्।
तं नागस्तक्षकः क्रुद्धस्तेजसा प्रदहिष्यति॥ 1-50-10(2110)
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः।
सप्तरात्रादितः पापं पश्य मे तपसो बलम्॥ 1-50-11(2111)
इत्युक्त्वा प्रययौ तत्र पिता यत्राऽस्य सोऽभवत्।
दृष्ट्वा च पितरं तस्मै तं शापं प्रत्यवेदयत्॥ 1-50-12(2112)
स चापि मुनिशार्दूलः प्रेरयामास ते पितुः।
शिष्यं गौरमुखं नाम शीलवन्तं गुणान्वितम्॥ 1-50-13(2113)
आचख्यौं सत्त्व विश्रान्तो राज्ञः सर्वमशेषतः।
शप्तोऽसि मम पुत्रेण यत्तो भव महीपते॥ 1-50-14(2114)
तक्षकस्त्वां महाराज तेजसाऽसौ दहिष्यति।
श्रुत्वा च तद्वचो घोरं पिता ते जनमेजय॥ 1-50-15(2115)
यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात्।
ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते॥ 1-50-16(2116)
राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत।
तं ददर्शाथ नागेन्द्रस्तक्षकः काश्यपं तदा॥ 1-50-17(2117)
तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं द्विजम्।
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति॥ 1-50-18(2118)
काश्यप उवाच। 1-50-19x(240)
यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज।
तक्षकेण भुजंगेन धक्ष्यते किल सोऽद्य वै॥ 1-50-19(2119)
गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम्।
मयाऽभिपन्नं तं चापि न सर्पो धर्षयिष्यति॥ 1-50-20(2120)
तक्षक उवाच। 1-50-21x(241)
किमर्थं तं मया दष्टं संजीवयितुमिच्छसि।
अहं त तक्षको ब्रह्मन्पश्य मे वीर्यमद्भुतम्॥ 1-50-21(2121)
न शक्तस्त्वं मया दष्टं तं संजीवयितुं नृपम्। 1-50-22(2122)
मन्त्रिण ऊचुः।
इत्युक्त्वा तक्षकस्तत्र सोऽदशद्वै वनस्पतिम्॥ 1-50-23x(242)
स दष्टमात्रो नागेन भस्मीभूतोऽभवन्नगः।
काश्यपश्च ततो राजन्नजीवयत तं नगम्॥ 1-50-23(2123)
ततस्तं लोभयामास कामं ब्रूहीति तक्षकः।
स एवमुक्तस्तं प्राह काश्यपस्तक्षकं पुनः॥ 1-50-24(2124)
धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः।
तमुवाच महात्मानं तक्षकः श्लक्ष्णया गिरा॥ 1-50-25(2125)
यावद्धनं प्रार्थयसे राज्ञस्तस्मात्ततोऽधिकम्।
गृहाण मत्त एव त्वं सन्निवर्तस्व चानघ॥ 1-50-26(2126)
स एवमुक्तो नागेन काश्यपो द्विपदां वरः।
लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम्॥ 1-50-27(2127)
तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः।
तं नृपं नृपतिश्रेष्ठं पितरं धार्मिकं तव॥ 1-50-28(2128)
प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना।
ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः॥ 1-50-29(2129)
एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम।
अस्माभिर्निखिलं सर्वं कथितं तेऽतिदारुणम्॥ 1-50-30(2130)
श्रुत्वा चैतं नरश्रेष्ठ पार्थिवस्य पराभवम्।
अस्य चर्षेरुदङ्कस्य विधत्स्व यदनन्तरम्॥ 1-50-31(2131)
सौतिरुवाच। 1-50-32x(243)
एतस्मिन्नेव काले तु स राजा जनमेजयः।
उवाच मन्त्रिणः सर्वानिदं वाक्यमरिदमः॥ 1-50-32(2132)
जनमेजय उवाच। 1-50-33x(244)
अथ तत्कथितं केन यद्वृत्तं तद्वनस्पतौ।
आश्चर्यभूतं लोकस्य भस्मराशीकृतं तदा॥ 1-50-33(2133)
यद्वृक्षं जीवयामास काश्यपस्तक्षकेण वै।
नूनं मन्त्रैर्हतविषो न प्रणश्येत काश्यपात्॥ 1-50-34(2134)
चिन्तयामास पापात्मा मनसा पन्नगाधमः।
दष्टं यदि मया विप्रः पार्थिवं जीवयिष्यति॥ 1-50-35(2135)
तक्षकः संहतविषो लोके यास्यति हास्यताम्।
विचिन्त्यैवं कृता तेन ध्रुवं तुष्टिर्द्विजस्य वै॥ 1-50-36(2136)
भविष्यति ह्युपायेन यस्य दास्यामि यातनाम्।
एकं तु श्रोतुमिच्छामि तद्वृत्तं निर्जने वने॥ 1-50-37(2137)
संवादं पन्नगेन्द्रस्य काश्यपस्य च कस्तदा।
श्रुतवान्दृष्टवांश्चापि भवत्सु कथमागतम्।
श्रुत्वा तस्य विधास्येऽहं पन्नगान्तकरीं मतिम्॥ 1-50-38(2138)
मन्त्रिण ऊचुः। 1-50-39x(245)
शृणु राजन्यथास्माकं येन तत्कथितं पुरा।
समागतं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि॥ 1-50-39(2139)
तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव।
विचिन्वन्पूर्वमारूढः शुष्कशाखावनस्पतौ॥ 1-50-40(2140)
न बुध्येतामुभौ तौ च नगस्थं पन्नगद्विजौ।
सह तेनैव वृक्षेण भस्मीभूतोऽभवन्नृप॥ 1-50-41(2141)
द्विजप्रभावाद्राजेन्द्र व्यजीवत्स वनस्पतिः।
तेनागम्य द्विजश्रेष्ठ पुंसाऽस्मासु निवेदितम्॥ 1-50-42(2142)
यथा वृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च।
एतत्ते कथितं राजन्यथादृष्टं श्रुतं च यत्।
श्रुत्वा च नृपशार्दूल विधत्स्व यदनन्तरम्॥ 1-50-43(2143)
सौतिरुवाच। 1-50-44x(246)
मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः।
पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करं करे॥ 1-50-44(2144)
निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः।
मुमोचाश्रूणि च तदा नेत्राभ्यां प्ररुदन्नृपः॥ 1-50-45(2145)
उवाच च महीपालो दुःखशोकसमन्वितः।
दुर्धरं बाष्पमुत्सृज्य स्पृष्ट्वा चापो यथाविधि॥ 1-50-46(2146)
मुहूर्तमिव च ध्यात्वा निश्चित्य मनसा नृपः।
अमर्षी मन्त्रिणः सर्वानिदं वचनमब्रवीत्॥ 1-50-47(2147)
जनमेजय उवाच। 1-50-48x(247)
श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति।
निश्चितेयं मम मतिर्या च तां मे निबोधत।
अनन्तरं च मन्येऽहं तक्षकाय दुरात्मने॥ 1-50-48(2148)
प्रतिकर्तव्यमित्येवं येन मे हिंसितः पिता।
शृङ्गिणं हेतुमात्रं यः कृत्वा दग्ध्वा च पार्थिवम्॥ 1-50-49(2149)
इयं दुरात्मता तस्य काश्यपं यो न्यवर्तयत्।
यद्यागच्छेत्स वै विप्रो ननु जीवेत्पिता मम॥ 1-50-50(2150)
परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः।
काश्यपस्य प्रसादेन मन्त्रिणां विनयेन च॥ 1-50-51(2151)
स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम्।
संजिजीवयिषुं प्राप्तं राजानमपराजितम्॥ 1-50-52(2152)
महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः।
द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति॥ 1-50-53(2153)
उत्तङ्कस्य प्रियं कर्तुमात्मनश्च महत्प्रियम्।
भवतां चैव सर्वेषां गच्छाम्यपचितिं पितुः॥ ॥ 1-50-54(2154)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चाशत्तमोऽध्यायः॥ 50 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-50-6 अङ्गेषु बागादिषु यतं नियतं शमदमवन्तमित्यर्थः॥ 1-50-7 अक्षुद्रं गम्भीरं। तव पित्रा विनिकृतमपकृतम्॥ 1-50-20 अभिपन्नं त्रातं धऱ्षयिष्यत्यमिभविष्यति॥ 1-50-24 कामं काम्यमानमर्थम्॥ 1-50-27 द्विपदा पुस्त्राणाम्॥ 1-50-36 संहतविषः सम्या हतं नष्टं विषं यस्य स तथा संहृतविष इति पाठे स्पष्टोथः॥ 1-50-39 समागणं समागमं भावे निष्ठा॥ 1-50-44 करं कर निधाय प्रत्यपिंषत्॥ 1-50-52 मोहान्मदीयसमर्थ्याज्ञानात्॥ 1-50-54 अपचितिं वैरनिर्यातनम्॥ पञ्चाशत्तमोऽध्यायः॥ 50 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|